वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नरः॒ सदा॑ य॒न्तारं॑ धी॒नामु॒शिजं॑ च वा॒घता॑म्। अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑सन्ति॒ नम॑सा जू॒तिभि॑र्वृ॒धे॥
viśpatiṁ yahvam atithiṁ naraḥ sadā yantāraṁ dhīnām uśijaṁ ca vāghatām | adhvarāṇāṁ cetanaṁ jātavedasam pra śaṁsanti namasā jūtibhir vṛdhe ||
वि॒श्पति॑म्। य॒ह्वम्। अति॑थिम्। नरः॑। सदा॑। य॒न्तार॑म्। धी॒नाम्। उ॒शिज॑म्। च॒। वा॒घता॑म्। अ॒ध्व॒राणा॑म्। चेत॑नम्। जा॒तऽवे॑दस॑म्। प्र। शं॒स॒न्ति॒। नम॑सा। जू॒तिऽभिः॑। वृ॒धे॥
स्वामी दयानन्द सरस्वती
फिर विद्वान् के विषय को अगले मन्त्र में कहा है।
स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयमाह।
ये नरो वृधे जूतिभिर्विश्पतिं यह्वं यन्तारमतिथिं धीनां वाघतामध्वराणां चोशिजं जातवेदसं चेतनं परमात्मानं नमसा सदा प्रशंसन्ति ते ब्रह्मविदो भवन्ति ॥८॥